Page Nav

HIDE

Classic Header

{fbt_classic_header}

Top Ad

khojosale.com

Breaking News:

latest

पुरुष सूक्तं

  ॐ सहस्रशीर्षा पुरुषः , सहस्राक्षः सहस्रपात्। स भूमि œ सर्वतस्पृत्वा , अत्यतिष्ठद्दशांगुलम्॥ ॐ पुरुषऽ एवेद œ सर्वं , यदभूतं यच्च भाव्यम्।...

 

ॐ सहस्रशीर्षा पुरुषः, सहस्राक्षः सहस्रपात्।
स भूमि œ सर्वतस्पृत्वा, अत्यतिष्ठद्दशांगुलम्॥
ॐ पुरुषऽ एवेद œ सर्वं, यदभूतं यच्च भाव्यम्।
उतामृतत्वस्येशानो, यदन्नेनातिरोहति॥
ॐ एतावानस्य महिमातो, ज्यायाँश्च पूरुषः।
पादोऽस्य विश्वाभूतानि, त्रिपादस्यामृतं दिवि॥
ॐ त्रिपादूर्ध्व ऽ उदैत्पुरुषः, पादोऽस्येहाभवत्पुनः।
ततो विष्वङ्व्यक्रामत्, साशनानशने अभि॥
ॐ ततो विराडजायत, विराजो अधिपूरुषः।
स जातो अत्यरिच्यत, पश्चाद् भूमिमथो पुरः॥
ॐ तस्माद्यज्ञात्सर्वहुतः, सम्भृतं पृषदाज्यम्।
पशूँस्ताँश्चक्रे वायव्यान्, आरण्या ग्राम्याश्च ये।
ॐ तस्माद्यज्ञात्सर्वहुतऽ, ऋचः सामानि जज्ञिरे।
छन्दा œ सि जज्ञिरे तस्माद्, यजुस्तस्मादजायत॥ॐ तस्मादश्वा ऽ अजायन्त, ये के चोभयादतः।
गावो ह जज्ञिरे तस्मात्, तस्माज्जाता ऽ अजावयः॥
ॐ तं यज्ञं बर्हिषि प्रौक्षन्, पुरुषं जातमग्रतः।
तेन देवाऽअयजन्त, साध्या ऽ ऋषयश्च ये॥
ॐ यत् पुरुषं व्यदधुः, कतिधा व्यकल्पयन्।
मुखं किमस्यासीत्किं बाहू, किमूरू पादा उच्येते॥
ॐ ब्राह्मणोऽ स्यमुखमासीद्, बाहू राजन्यः कृतः।
ऊरू तदस्य यद्वैश्यः पद्भ्याœ शूद्रो अजायत॥
ॐ चन्द्रमा मनसो जातः, चक्षोः सूर्यो अजायत।
श्रोताद्वायुश्च प्राणश्च, मुखादग्निरजायत॥
ॐ नाभ्याऽ आसीदन्तरिक्ष œ, शीर्ष्णो द्यौः समवर्त्तत।
पद्भ्यां भूमिर्दिशः श्रोत्रात्, तथा लोकाँ२ अकल्पयन्।
ॐ यत्पुरुषेण हविषा, देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं, ग्रीष्म ऽ इध्मःशरद्धविः।
ॐ सप्तास्यासन्परिधयः, त्रिः सप्त समिधः कृताः।
देवा यद्यज्ञं तन्वानाऽ, अबध्नन् पुरुषं पशुम्।
ॐ यज्ञेन यज्ञमयजन्त देवाः, तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त, यत्र पूर्वे साध्याः सन्ति देवाः॥
-
ऋ.१०.९०.१- १६,साम.६१७

कोई टिप्पणी नहीं