प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृती...
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं
आयुःकामार्थसिद्धये ॥ १॥
प्रथमं वक्रतुण्डं च एकदन्तं
द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं
चतुर्थकम् ॥ २॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं
तथाष्टमम् ॥ ३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥
४॥
द्वादशैतानि नामानि त्रिसंध्यं यः
पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं
प्रभुः ॥ ५॥
विद्यार्थी लभते विद्यां धनार्थी लभते
धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी
लभते गतिम् ॥ ६॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं
लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः
॥ ७॥
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा
यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य
प्रसादतः ॥ ८॥
कोई टिप्पणी नहीं